हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Narayana Hrudaya Stotram – श्री नारायण हृदय स्तोत्रम्


अस्य श्रीनारायणहृदयस्तोत्रमन्त्रस्य भार्गव ऋषिः, अनुष्टुप्छन्दः, श्रीलक्ष्मीनारायणो देवता, ओं बीजं, नमश्शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे जपे विनियोगः ।

करन्यासः ।
ओं नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः ।
नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।
नारायणः परो देव इति मध्यमाभ्यां नमः ।
नारायणः परं धामेति अनामिकाभ्यां नमः ।
नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः ।
विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः ।
नारायणः परं ज्योतिरिति हृदयाय नमः ।
नारायणः परं ब्रह्मेति शिरसे स्वाहा ।
नारायणः परो देव इति शिखायै वौषट् ।
नारायणः परं धामेति कवचाय हुम् ।
नारायणः परो धर्म इति नेत्राभ्यां वौषट् ।
विश्वं नारायण इति अस्त्राय फट् ।
दिग्बन्धः ।
ओं ऐन्द्र्यादिदशदिशं ओं नमः सुदर्शनाय सहस्राराय हुं फट् बध्नामि नमश्चक्राय स्वाहा । इति प्रतिदिशं योज्यम् ।

अथ ध्यानम् ।
उद्यादादित्यसङ्काशं पीतवासं चतुर्भुजम् ।
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥ १ ॥

त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी
तन्मध्ये भूमिपद्माङ्कुशशिखरदलं कर्णिकाभूतमेरुम् ।
तत्रस्थं शान्तमूर्तिं मणिमयमकुटं कुण्डलोद्भासिताङ्गं
लक्ष्मीनारायणाख्यं सरसिजनयनं सन्ततं चिन्तयामि ॥ २ ॥

अथ मूलाष्टकम् ।
ओम् ॥ नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ १ ॥

नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो धाता नारायण नमोऽस्तु ते ॥ २ ॥

नारायणः परं धाम ध्यानम् नारायणः परः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते ॥ ३ ॥

नारायणः परोवेद्यः विद्या नारायणः परः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ ४ ॥

नारायणाद्विधिर्जातो जातो नारायणाद्भवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥ ५ ॥

रविर्नारायणस्तेजः चन्द्रो नारायणो महः ।
वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ ६ ॥

नारायण उपास्यः स्याद्गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ ७ ॥

नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
सेव्योनारायणः शुद्धो नारायण नमोऽस्तु ते ॥ ८ ॥ [हरि]

अथ प्रार्थनादशकम् ।
नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरकः प्रेर्यमाणानां त्वया प्रेरितमानसः ॥ ९ ॥

त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् ।
नानोपासनमार्गाणां भवकृद्भावबोधकः ॥ १० ॥

भावार्थकृद्भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ ११ ॥

त्वदधिष्ठानमात्रेण सा वै सर्वार्थकारिणी ।
त्वमेतां च पुरस्कृत्य सर्वकामान्प्रदर्शय ॥ १२ ॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ १३ ॥

यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत्साध्या सर्वथा सर्वदा विभो ॥ १४ ॥

पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ १५ ॥

त्वयाहं नैव सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ १६ ॥

पापसङ्घपरिश्रान्तः पापात्मा पापरूपधृत् ।
त्वदन्यः कोऽत्र पापेभ्यस्त्रातास्ति जगतीतले ॥ १७ ॥

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव सेव्यश्च गुरुस्त्वमेव
त्वमेव सर्वं मम देव देव ॥ १८ ॥

प्रार्थनादशकं चैव मूलाष्टकमतः परम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ १९ ॥

नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रम् यदि चेत्तद्विनाकृतम् ॥ २० ॥

तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुद्ध्यति सर्वदा ।
एतत्सङ्कलितं स्तोत्रम् सर्वकामफलप्रदम् ॥ २१ ॥

लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् ।
जपेद्यः सङ्कलीकृत्य सर्वाभीष्टमवाप्नुयात् ॥ २२ ॥

नारायणस्य हृदयमादौ जप्त्वा ततः परम् ।
लक्ष्मीहृदयकं स्तोत्रम् जपेन्नारायणं पुनः ॥ २३ ॥

पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ।
पुनर्नारायणं जाप्यं सङ्कलीकरणं भवेत् ॥ २४ ॥

एवं मध्ये द्विवारेण जपेत्सङ्कलितं तु तत् ।
लक्ष्मीहृदयकं स्तोत्रम् सर्वकामप्रकाशितम् ॥ २५ ॥

तद्वज्जपादिकं कुर्यादेतत्सङ्कलितं शुभम् ।
सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ २६ ॥

गोप्यमेतत्सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रं प्राप्तं ब्रह्मादिकैः पुरा ॥ २७ ॥

तस्मात्सर्वप्रयत्नेन गोपयेत्साधयेसुधीः ।
यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ॥ २८ ॥

भूतपैशाचवेताल भयं नैव तु सर्वदा ।
लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः ॥ २९ ॥

भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् ।
सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः ।
गोपनात्साधनाल्लोके धन्यो भवति तत्त्वतः ॥ ३० ॥

इत्यथर्वरहस्ये उत्तरभागे नारायणहृदयं सम्पूर्णम् ।


Sri Vishnu Stotras – श्री विष्णु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.